सूर्य कवच | Surya Kavach

श्रीसूर्यध्यानम्

रक्तांबुजासनमशेषगुणैकसिन्धुं
भानुं समस्तजगतामधिपं भजामि।
पद्मद्वयाभयवरान् दधतं कराब्जैः
माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥

श्री सूर्यप्रणामः

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।
ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥

। याज्ञवल्क्य उवाच ।

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् ॥ १॥

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् ।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ २ ॥

शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः ।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ ३ ॥

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः ।
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः ॥ ४ ॥

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः ।
पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः ॥ ५ ॥

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥ ६ ॥

सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः ।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति ॥ ७ ॥

॥ इति श्री माद्याज्ञवल्क्यमुनिविरचितं
सूर्यकवचस्तोत्रं संपूर्णं ॥


अन्य कवच पाठ संग्रह


दुर्गा सप्तशती योगिनी कवच | Durga Kavach | Devi Kavach
शनि कवच | Shani Kavach | Shani Kavacham
अमोघ शिव कवच |  Amogh Shiv Kavach | Shiv kavach
हरिद्रा गणेश कवचम् | Haridra Ganesh Kavacham
श्री नारायण कवचम् | Narayan Kavacham
लक्ष्मी नारायण कवचम् | Lakshmi Narayan Kavach
गोपाल अक्षय कवचम् | Gopal Akshay Kavacham
दत्तात्रेय वज्र कवचम् | Dattatreya Vajra-Kavacham
नवग्रह कवच | NavGraha Kavacham

Leave a Reply

Your email address will not be published. Required fields are marked *