गंगा माता स्तोत्रम्

गंगा माता स्तोत्रम् | Ganga Mata Stotram

भागीरथिसुखदायिनि मातस्तवजलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम् ॥ 2॥

तव जलममलं येन निपीतंपरमपदं खलु तेन गृहीतम्।
मातर्गंगे त्वयि यो भक्तःकिल तं द्रष्टुं न यमः शक्तः ॥ 4॥

कल्पलतामिव फलदां लोकेप्रणमति यस्त्वां न पतति शोके।
पारावारविहारिणि गङ्गेविमुखयुवतिकृततरलापाङ्गे ॥ 6॥

पुनरसदंगे पुण्यतरंगे जयजय जाह्नवि करुणापांगे।
इंद्रमुकुटमणिराजितचरणेसुखदे शुभदे भृत्यशरण्ये ॥ 8॥

अलकानन्दे परमानन्दे कुरुकरुणामयि कातरवन्द्ये।
तव तटनिकटे यस्य निवासःखलु वैकुण्ठे तस्य निवासः ॥ 10॥

भो भुवनेश्वरि पुण्ये धन्येदेवि द्रवमयि मुनिवरकन्ये।
गङ्गास्तवमिमममलं नित्यंपठति नरो यः स जयति सत्यम् ॥ 12॥

गंगास्तोत्रमिदं भवसारंवाञ्छितफलदं विमलं सारम्।
शङ्करसेवकशङ्कररचितंपठति सुखीः तव इति च समाप्तः ॥ 14॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥

अन्य स्तोत्र संग्रह


Leave a Reply

Your email address will not be published. Required fields are marked *